________________
टतीयः प्रकाशः । हन्ता पलस्य विक्रेता संस्कर्ता भक्षकस्तथा। क्रेताऽनुमन्ता दाता च घातका एव यन्मनुः ॥२०॥ हन्ता शस्त्रादिना प्राणिनां प्राणापहारकः, पलस्य विक्रेता यो मांस विक्रीणीते। पलस्येत्युत्तरेष्वपि पदेषु सम्बन्धनीयम् । संस्कर्ता यो मांसं संस्करोति, भक्षक: खादकः, क्रेता यो मांसं क्रोणाति, अनुमन्ता य: प्राणिहिंसया मांसमुत्पाद्यमानमनुमोदते, दाता यो मांसमतिथ्यादिभ्यो ददाति ; एते साक्षात्यारम्पद्येण वा घातका एव प्राणिप्राणापहारका एव, यन्मनुरिति संवादार्थम् ॥ २० ॥
मानवमेवोतं दर्शयतिअनुमन्ता विशसिता निहन्ता क्रयविक्रयो। संस्कर्ता चोपहर्ता च खादकश्चेति घातकाः ॥२१॥ अनुमन्ता अनुमोदकः, विशसिता हतस्याङ्गविभागकरः, निहन्ता व्यापादकः, क्रयविक्रयो क्रयविक्रयौ विद्येते यस्य स तथा, क्रेता विक्रेता चेत्यर्थः ; संस्कर्ता मांसपाचकः, उपहर्ता परिवेष्टा, खादको भक्षक: ; एते सर्वे घातकाः ॥ २१ ॥
___ द्वितीयमपि मानवं श्लोकमाहनाकृत्वा प्राणिनां हिंसां मांसमुत्पद्यते क्वचित् ।
न च प्राणिवधः स्वर्ग्यस्तस्मान्मांसं विवर्जयेत् ॥ २२ ॥ यावत्प्राणिनो न हतास्तावन्मांसं नोत्पद्यते, हिंसा चातिशयेन दुःखावहा, तस्मान्मांसं विवर्जयेत्, उत्पद्यत इति मांसस्य हिंसा