SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ योगशास्त्रे अथ मांसदोषानाह चिखादिषति यो मांसं प्राणिप्राणापहारतः । उन्मूलयत्यसौ मूलं दयाऽऽख्यं धर्मशाखिनः ॥ १८ ॥ ४६ ६ कस्य चिखादिषति, खादितुमिच्छति, यः कश्चित्, मांसं पिशितं, असौ पुमान्, उन्मूलयति उत्खनति, किं तन्मूलं दयासंज्ञकं, धर्मशाखिनः पुण्यवृक्षस्य, मांसखादने कथं धर्मतरोर्दयाख्यं मूलमुन्मूल्यते इत्याह – प्राणिप्राणापहारतः प्राणिप्राणापहाराद्धेतोः, न हि प्राणिप्राणापहारमन्तरेण मांसं संभवतीति ॥ १८ ॥ अथ मांसं चिखादिषनपि प्राणिदयां करिष्यतीत्याहअशनीयन् सदा मांसं दयां यो हि चिकीर्षति । ज्वलति ज्वलने वल्लीं स रोपयितुमिच्छति ॥ १६ ॥ सदा सर्वदा, मांसमशनीयन् मांसमशनमिवाचरन्, पुत्रीयति च्छात्रमितिवत् “आधाराच्चोपमानादाचारे” ॥ ३ । ४ । २४ ॥ इति क्यनि रूपम्, दयां कृपां यः कश्चित्, हि स्फुटं चिकीर्षति कर्तुमिच्छति । ज्वलतीत्यादिना निदर्शनम्, यथा ज्वलत्यग्नौ वल्लीरोपणमशक्यम्, तथा मांसमशनीयता दयाऽपि कर्तुमशक्ये - त्यर्थः ॥ १८ ॥ नन्वन्यः प्राणिनां घातकोऽन्यश्च मांसभक्षक इति कथं मांसभक्षकस्य प्राणिप्राणापहरणमिति । उच्यते । भक्षकोऽपि घातक एवेत्याह -
SR No.002394
Book TitleYogshastra Part 03
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1910
Total Pages204
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy