________________
टतीयः प्रकाश: ।
४६५
श्रूयते किल शाम्बेन मद्यादन्धम्भविष्णुना । हतं वृष्णिकुलं सर्व प्लोषिता च 'पुरी पितुः ॥ ६ ॥ पिबन्नपि मुहुर्मद्यं मद्यपो नैव टप्यति । जन्तुजातं कवलयन् कतान्त इव सर्वदा ॥ ७ ॥ लौकिका अपि मद्यस्य बहुदोषत्व'मास्थिताः । यत्तस्य परिहार्यत्वमेवं पौराणिका जगुः ॥ ८ ॥ कश्चिदृषिस्तपस्तेपे भीत इन्द्रः सुरस्त्रियः । क्षोभाय प्रेषयामास तस्यागत्य च तास्तकम् ॥८॥ विनथेन समाराध्य वरदाभिमुखं स्थितम् । जगुर्मद्यं तथा मांसं सेवखाब्रह्म चेच्छया ॥ १० ॥ स एवं गदितस्ताभिईयोनरकहेतुताम् । पालोच्य मद्यरूपं च शुद्धकारणपूर्वकम् ॥ ११ ॥ मद्यं प्रपद्य तद्भोगान् नष्टधर्मस्थितिमंदात् । विदंशार्थमजं हत्वा सर्वमेव चकार स: ॥ १२ ॥
अवद्यमूलं नरकस्य पद्धति सर्वापदां स्थानमकीर्तिकारणम् । अभव्यसेव्यं गुणिभिर्विगर्हितं विवर्जयेन्मद्यमुपासकः सदा ॥ १३ ॥ १७ ॥
(१) ख च पितुः पुरी। । (२) ख च ञ -माश्रिताः ।