________________
योगशास्त्रे
शास्त्रावबोधः, सत्यं तथ्या भाषा, शौचमाचारशुद्धि:, दया करुण, क्षमा क्रोधस्यानुत्पाद उत्पन्नस्य वा विफलीकरणम् । मद्यान्मद्यपानात्, प्रलीयते नाशमुपयाति सर्वं विवेकादि । यथा वह्निकणात् तृण्या तृणसमूहः। तृणानां समूहस्तृण्या, पाशादित्वाल्लाः ॥ १६॥
४६४
दोषाणां कारणं मद्यं मद्यं कारणमापदाम् । रोगातुर इवापथ्यं तस्मान्मद्यं विवर्जयेत् ॥ १७ ॥
दोषाणां चौर्यपारदारिकत्वादीनां कारणं हेतुः, मद्यपानरतो हि किं किमकार्यं न कुरुते ; दोषकारणत्वादेव चापदां वधबन्धादीनां कारणं तस्मान्मद्यं विवर्जयेदित्युपसंहारः । रोगातुर इवापथ्यमित्युपमानम् ।
अत्नान्तरश्लोकाः—
रसोद्भवाश्च भूयांसो भवन्ति किल जन्तवः । तस्मान्मद्यं न पातव्यं हिंसापातकभीरुणा ॥ १ ॥ दत्तं न दत्तमात्तं च नात्तं कृतं च नो कृतम् । मृषोद्यराज्यादिव हा खैरं वदति मद्यपः ॥ २ ॥ गृहे बहिर्वा मार्गे वा परद्रव्याणि मूढधीः । areन्धादिनिर्भीको गृह्णात्याच्छिद्य मद्यपः ॥ ३ ॥ बालिकां युवतीं वृद्धां ब्राह्मणों खपचोमपि । भुङ्क्ते परस्त्रियं सद्यो मद्योन्मादकदर्थितः ॥ ४ ॥ रटन् गायन् लुठन् धावन् कुप्यंस्तुष्यन् रुदन् हसन् । स्तम्नन्नमन् भ्रमंस्तिष्ठन् सुरापः पापराट् नटः ॥ ५ ॥