SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ तृतीयः प्रकाशः। ४६३ तेजः, कीर्तिर्यशः, मतिस्तात्कालिकी प्रतिभा, श्रीः सम्पत् । विचित्रा इत्याद्युपमानं स्पष्टम् ॥ १३ ॥ तथा भूतात्तवन्नरीनतिं रारटौति सशोकवत् । दाहज्वरातवद्भूमौ मुरापो लोलुठौति च ॥१४॥ भूतात्तो व्यन्तरविशेषपरिगृहीतः, वीण्यपि क्रियापदानि भृशाभीक्ष्णयोर्यलुबन्तानि ॥ १४ ॥ तथाविदधत्यङ्गशैथिल्यं ग्लपयन्तीन्द्रियाणि च । मूर्छामतुच्छां यच्छन्ती हाला हालाहलोपमा ॥१५॥ हाला सुरा, हालाहलोपमा हालाहलो विषविशेषस्तत्सदृशी। साधारणधर्मानाह-विदधती कुर्वाणा अङ्गशैथिल्यं शरीरविशंस्थुलत्वम्, ग्लपयन्ती कार्याक्षमाणि कुर्वती, इन्द्रियाणि चक्षुरादीनि ; मूर्छा चैतन्याभावस्तामतुच्छां प्रचुरां यच्छन्ती। अङ्गशैथिल्यादयो हालाहालाहलयोः साधारणा धर्माः ॥ १५ ॥ तथा विवेकः संयमो ज्ञानं सत्यं शौचं दया क्षमा। मद्यात्पलीयते सर्व टण्या वह्निकणादिव ॥ १६ ॥ विवेको हेयोपादेयज्ञानं, संयम इन्द्रियवशीकारः, ज्ञानं
SR No.002394
Book TitleYogshastra Part 03
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1910
Total Pages204
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy