________________
टतीयः प्रकाशः ।
४५८
लोभवशगो हि अर्द्धलोकगतां सुरसम्मदं मध्यलोकगतां च चक्रवादिसम्पदमधोलोकगतां च पातालप्रभुत्वादिसम्पदम भिलषंस्त्रिभुवनमपि मनोरथैराक्रामतीति लोभस्य जगदाक्रमणम्, तेन स्खलनं प्रसरनिरोधः, तद्विदधे, येन किं, येन पुरुषण दिग्विरतिविहिता। दिग्विरती हि प्रतिज्ञातसौमातः परतोऽगच्छंस्तत्स्थ - सुवर्णरूप्यधनधान्यादिषु प्रायेण लोभं न कुरुते इतिलोभलक्षणपापस्थानविरतिपरता अस्य व्रतस्य । पत्रान्तरश्लोकाः
तदेतद्यावज्जीवं वा सव्रतं गृहमधिनाम् । चतुर्मासादिनियमादथवा स्वल्पकालिकम् ॥ १ ॥ सदा सामायिकस्थानां यतीनां तु जितात्मनाम् । न दिशि वचन स्यातां विरत्यविरती इमे ॥ २॥ चारणानां हि गमनं यदूई मेरुमूई नि । तिर्यगचकशैले च नैषां दिग्विरतिस्ततः ॥ ३ ॥ गन्तुं सर्वासु यो दिक्षु विदध्यादवधिं सुधीः ।
स्वर्गादौ निरवधयो जायन्ते तस्य सम्पदः ॥ ४ ॥ ३ ॥ द्वितीय गुणघ्रतमाहभोगोपभोगयोः संख्या शक्त्या यत्र विधीयते । भोगोपभोगमानं तद् हैतीयोकं गुणवतम् ॥ ४ ॥ . भोगोपभोगयोर्वक्ष्यमाणलक्षणयोः, संख्या परिमाणं, यत्र व्रते, विधीयते, कया, शक्त्या शरीरमनसोरनाबाधया, तद्भोमोप