________________
४५८
योगशास्त्रे नियमितसीमाबहिवर्तिनां जीवानां, यहिमर्दनं यातायातादिना हिंसा, तस्य निवर्तनाद्धेतोरिदमपि हिंसाप्रतिषेधपरमेव गृहस्थस्यापि सद्वतम् । हिंसाप्रतिषेधपरत्वे च, असत्यादिप्रतिषेधपरताऽपि सुवचैव। यद्येवं, साधूनामपि दिग्विरतिव्रतप्रसङ्ग इत्याह–तप्तायोगोलकल्पस्यति । गृहस्थो ह्यारम्भपरिग्रहपरत्वाद्यत्र यत्र याति, भुङ्क्ते, शेते, व्यापारान्तरं वा कुरुते, तत्र तप्तायोगोलक इव जीवोपमदं करोति । गृहिणोऽपीत्यपिशब्दस्तप्तायोगोलकल्पस्येत्यत्र सम्बध्यते ; तप्तायोगोलकल्पस्यापीत्यर्थः । यदाह
'तत्तायगोलकप्पो पमत्तजीवोऽणिवारियप्पसरो।
सव्वत्य किं न कुज्जा पावं तकारणाणुगो ॥ १ ॥ साधूनां तु समितिगुप्तिप्रधानव्रतशालिनां नायं दोष इति न तेषां दिग्विरतिव्रतम् ॥ २ ॥ लोभलक्षणपापस्थानविरतिपरमपि चैतद् व्रतमित्याह
जगदाक्रममाणस्य प्रसरल्लोभवारिधेः । स्खलनं विदधे तेन येन दिग्विरतिः कृता ॥ ३ ॥ लोभ एव दुर्लङ्घयत्वाहारिधिः समुद्रः प्रसरंश्चासौ नानाविकल्पकल्लोलाकुलतया लोभवारिधिश्च ; तस्य विशेषणं जगदाक्रममा. णस्य। वारिधिपक्षे जगल्लोकः, लोभपक्ष तु निःशेषमेव भुवनत्रयम् ।
(१) तप्तायोगोलकल्पः प्रमत्तजीवोऽनिवारितप्रसरः।
सर्बत्र किं न कुर्यात् पापं तत्कारणानुगतः ॥