________________
अहम् टतीयः प्रकाशः ।
अथाणुव्रतव्यावर्णनानन्तरं गुणवतानामवसरस्तत्रापि प्रथम
गुणवतमाह
दशवपि कृता दिक्षु यत्र सीमा न लङ्घयते ।
ख्यातं दिग्विरतिरिति प्रथमं तद्गुणव्रतम् ॥ १ ॥ - ऐन्द्री, आग्नेयी, याम्या, नैती, वारुणी, वायव्या, कौबेरी, ऐशानी, नागी, ब्राह्मोति दश दिशस्तासु ; अपिशब्दादेकहिमादिदिवपि, सीमा मर्यादा, कता प्रतिपन्ना, यत्र व्रते सति, न लङ्घयते नातिक्रम्यते, तत्प्रथमं गुणवतम् । उत्तरगुणरूपं व्रतं गुणव्रतम्, गुणाय चोपकाराय अणुव्रतानां व्रतं गुणव्रतम् ; ख्यातं प्रसिद्धं, तस्याभिधानं दिग्विरतिरिति ॥ १ ॥
ननु हिंसादिपापस्थानविरतिरूपाणि युक्तान्यणुव्रतानि, दिग्वते तु कस्य पापस्थानस्य निवृत्तिर्येनास्य व्रतत्वमुच्यते । उच्यते । अत्रापि हिंसादीनामेव पापस्थानानां विरतिरेतदेवाह
चराचराणां जीवानां विमर्दननिवर्तनात् । तप्तायोगोलकल्पस्य सद्रतं गृहिणोऽप्यदः ॥२॥
चरास्त्रसा हीन्द्रियादयः, अचराः स्थावराः एकेन्द्रियाः ; तेषां