SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ योगशास्त्र भोगमानं नाम गुणवतं, द्वितीयमेव हैतीयोकम् ; स्वार्थे टोकण ॥ ४ ॥ भोगोपभोगयोलक्षणमाह सकृदेव भुज्यते यः स भोगोऽन्नस्रगादिकः । पुनःपुनः पुनर्भोग्य उपभोगोऽङ्गनादिकः ॥ ५ ॥ सक्कदेव एकवारमेव, भुज्यते सेव्यते इति भोग: ; अनमोदनादि, स्रग्माल्यं, आदिशब्दात्ताम्बूलविलेपनोहर्तनधूपनस्नानपानादिपरिग्रहः । पुन:पुनरनेकवारं, भोग्यः सेव्यः, अङ्गना वनिता, आदिशब्दाहस्त्रालङ्कारदहशयनासनवाहनादिपरिग्रहः ॥ ५ ॥ इदं च भोगोपभोगव्रतं भोक्तुं योग्येषु परिमाणकरणेन भवति, इतरेषु तु वर्जनेनेति श्लोकहयेन तद्दजनीयानाह - मद्यं मांसं नवनीतं मधूदुम्बरपञ्चकम् । अनन्तकायमज्ञातफलं रात्रौ च भोजनम् ॥ ६ ॥ आमगोरससंपृतं द्विदलं पुष्पितौदनम् । ध्यहतियातीतं कुथितान्नं च वर्जयेत् ॥७॥ तत्र मद्यं विधा-काष्ठनिष्पन्नं, पिष्टनिष्पन्नं च, मांसं त्रिधाजलस्थलखचरमांसभेदेन । मांसग्रहणेन चर्मरुधिरमेदोमज्जानः परिगृह्यन्ते। नवनीतं गोमहिष्यजाऽविसम्बन्धेन चतुर्डा । मधु
SR No.002394
Book TitleYogshastra Part 03
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1910
Total Pages204
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy