________________
हितीयः प्रकाशः।
४५३
बाह्यानपि हि यः सङ्गान नियन्त्रयितुं क्षमः । जयेत् क्लीबः कथं सोऽन्तःपरिग्रहचमूममूम् ॥ ७ ॥ क्रोडोद्यानमविद्यानां वारिधिर्व्यसनार्णसाम् । कन्दस्तृष्णामहावन्लेरेक एव परिग्रहः ॥ ८ ॥ अहो आश्चर्यमुन्मुक्तसर्वसङ्गान्मुनीनपि । धनाथित्वेन शङ्कन्ते धनरक्षापरायणाः ॥८॥ राजतस्करदायादवह्नितोयादिभीरुभिः । धनकतानैर्धनिभिर्निशास्वपि न सुप्यते ॥ १० ॥ दुर्भिक्षे वा सुभिक्षे वा वने जनपदेऽपि वा । शङ्गाऽऽतङ्काकुलतया धनी सर्वत्र दुःखितः ॥ ११ ॥ निर्दोषा वा सदोषा वा सुखं जीवन्ति निर्धमाः । बाध्यन्ते धनिनो लोके दोषैरुत्पादितैरपि ॥ १२ ॥ अर्जने रक्षणे नाशे व्यये सर्वत्र दुःखदम् । धत्ते कर्णगृहीताच्छभल्ललीलां धनं नृणाम् ॥ १३ ॥ धिग्धनं धनवन्तो यदेकामिष जितुभिः । वजनैरपि बाध्यन्ते शुनकाः शुनकरिव ॥ १४ ॥ इत्थम) लभेयाहं रक्षेयं वईयेय च। कतान्तदन्तयन्वस्थोऽपोत्याशां न त्यजेदनी ॥ १५ ॥ पिशाचीव धनाशेयं यावदुच्छृङ्खला भवेत् । तावत् प्रदर्शयेबृणां नानारूपां विडम्बनाम् ॥ १६ ॥ यदीच्छसि मुखं धर्म मुक्तिसाम्राज्यमेव च । तदा परपरीहारादेकामाशां वशीकुरु ॥ १७ ॥