________________
४५२
योगशास्त्रे
धेनुः, सा अनुगच्छतीत्येवंशीला अनुगामिनी, अमराः सुराः, किशरा इवाचरन्ति किङ्करायन्ते । तस्येति योग: । यस्य किम् ; यस्य पुंसः सन्तोषो भूषणमलङ्करणम् । तथाहि
सन्तुष्टा मुनयः शमप्रभावात्तृणाग्रादपि रत्नसमूहान् पातयन्ति, कामितफलदायिनश्च सुरेन्द्ररप्यहमहमिकयोपचर्यन्त इत्यत्र कः सन्देहः । अत्रान्तरश्लोकाः
'धनं धान्यं स्वर्णरूप्यकुप्यानि क्षेत्रवास्तुनी । हिपाच्चतुष्याच्चेति स्युर्नव बाह्याः परिग्रहाः ॥ १ ॥ रागद्देषो कषायाः शुम्हासौ रत्यरतो भयम् । जुगुप्सा वेदमिथ्यात्वे आन्तराः स्युश्चतुर्दश ॥ २ ॥ बाह्यात् परिग्रहाप्रायः प्रकुप्यन्त्यान्तरा अपि । प्रावषो मूषिकालर्कविषजोपद्रवा इव ॥ ३ ॥ प्राप्तप्रतिष्ठानपि च वैराग्यादिमहाद्रुमान् । उन्मूलयति निर्मूलं परिग्रहमहाबल: ॥ ४ ॥ परिग्रहनिषसोऽपि योऽपवर्ग विमार्गति । लोहोडुपनिविष्टोऽसौ पारावारं तितीर्षति ॥ ५ ॥ बाह्याः परिग्रहाः पुंसां धर्मस्य ध्वंसहेतवः । तज्जन्मानोऽपि जायन्ते समिधामिव वह्नयः ॥ ६ ॥
(१) क ख च धनधान्यस्वर्ण-। ड धान्यं धनं स्व-।