________________
द्वितीयः प्रकाशः |
श्रीवीरं स्वामिनं प्राप्य प्राप्य त्वत्पुत्रतामपि ।
नो छेत्स्ये भवदुःखं चेन्मत्तः कोऽन्योऽधमस्ततः ॥ ७ ॥ नाम्नाऽहमभयस्तात ! सभ्योऽस्मि भवाद्भृशम् । भुवनाभयदं वीरं तच्छ्रयामि समादिश ॥ ८ ॥ तदलं मम राज्येनाभिमानसुख हेतुना । यतः सन्तोषसाराणि सौख्यान्याहुर्महर्षयः ॥ ८ ॥ निर्बन्धाद्ब्राह्यमाणोऽपि न यदा राज्यमग्रहीत् । तदाऽभयो व्रतायानुजज्ञे राज्ञा प्रमोदतः ॥ १० ॥ राज्यं तृणमिव त्यक्त्वा सन्तोषसुखभागसौ । दीक्षां चरमतीर्थेश्वोरपादान्तिकेऽग्रहीत् ॥ ११ ॥ सन्तोषमेवमभयः सुखदं दधानः
सर्वार्थसिद्धिसुरधाम जगाम मृत्वा ।
सन्तोषमेवमपरोऽप्यवलम्बमानस्तान्युत्तरोत्तरसुखानि नरो लभेत || २१२ ॥
॥ इति श्रीअभयराजर्षिकथानकम् ॥ ११४
४५.१
प्रकृतं सन्तोषमेव स्तौति
सन्निधौ निधयस्तस्य कामगव्यनुगामिनी । अमराः किङ्करायन्ते सन्तोषो यस्य भूषणम् ॥ १.१५॥
निधयो महापद्मादयः, सन्निधौ सन्निहिताः, कामगवी काम