________________
४५०
योगशास्त्रे
सम्यगीदृगयं साधुः पात्रं दानस्य युज्यते । मुधाऽसौ जहसेऽस्माभिरिति तैर्जगदेऽभयः ॥ ६ ॥ अस्य भोपहासादि न कर्त्तव्यमतः परम् ।
आदिष्टमभयेनैवं प्रतिपद्य ययुर्जनाः ॥ ८७ ॥ एवं बुद्धिमहाम्भोधि: पिलभक्तिपरोऽभयः । निरीहो धर्मसंसक्तो राज्यमन्वशिषत्पितुः ॥ ८८ ॥ वर्तमानः स्वयं धर्मे स प्रजा अप्यवर्तयन् । प्रजानां च पशूनां च गोपायत्ता: प्रवृत्तयः ॥ ८ ॥ राजा चक्रे जजागार यथा हादशधा स्थिते । तथा श्रावकधर्मेऽसावप्रमहरमानसः ॥ २० ॥ बहिरङ्गान् यथाऽजैषीदुर्जयानपि विदिषः । अन्तरङ्गानपि तथा स लोकद्दयसाधकः ॥ १ ॥ तमूचे श्रेणिकोऽन्येयुर्वस ! राज्यं त्वमाश्रय । अहं श्रयिष्ये श्रीवीरशुश्रूषासुखमन्वहम् ॥ २ ॥ पित्राज्ञाभङ्गसंसारभौरुरित्यभयोऽब्रवीत् । यदादिशत तत्साधु प्रतीक्षध्वं क्षणं परम् ॥ ३ ॥ इतश्च भगवान् वीरः प्रव्राज्योदायनं नृपम् । मरुमण्डलतस्तत्राभ्यागत्य समवासरत् ॥ ४ ॥ ततो गत्वाऽभयो नत्वा पप्रच्छ चरमं जिनम् । राजर्षिः कोऽन्तिमोऽथाख्यत्तत्रैवोदायनं प्रभुः ॥ ५ ॥ गत्वोचे श्रेणिकं सोऽस्मि राजा चेन्न ऋषिम्तदा । श्रीवीरोऽन्तिमराजर्षि शशंसोदायनं यतः ॥ ६ ॥