________________
द्वितीयः प्रकाशः । ____४४८ ततो निनाय प्रद्योतं श्रेणिकस्य पुरोऽभयः । दधावे खगमावष्य तं प्रति श्रेणिको नृपः ॥ ८५ ॥ ततोऽभयकुमारेण बोधितो मगधेश्वरः । संमान्य वस्त्राभरणैः प्रद्योतं व्यसृजन्मुदा ॥ ८६ ॥ अन्यदा गणभृद्देवसुधर्मस्वामिनोऽन्तिके । प्रव्रज्यामग्रहीत्कोऽपि विरक्त: काष्ठभारिकः ॥ ८७ ॥ विहरन् स पुरे पौरैः पूर्वावस्थाऽनुवादिभिः । अभय॑तोपाहस्यतागातापि पदे पदे ॥ ८८ ॥ नावज्ञां सोदुमीशोऽत्र विहरामि तदन्यतः । इति व्यज्ञपयत् स श्रीसुधर्मवामिनं ततः ॥ ८ ॥ सुधर्मखामिनाऽन्यत्र विहारक्रमहेतवे । आपृच्यताभयः पृच्छन् ज्ञापितस्तच्च कारणम् ॥ ४० ॥ दिनमेकं प्रतीक्षध्वमूद्धं यत्प्रतिभाति वः । तविधत्तेत्ययाचिष्ट प्रणम्य श्रेणिकात्मजः ॥ ८१॥ सोऽथ राजकुलात्कृष्ट्वा रत्नकोटिनयों बहिः । दास्याम्येतामेत लोकाः ! पटहेनेत्यघोषयत् ॥ ८२ ॥ सतश्चेयुर्जनाः सर्वेऽप्यवोचदभयोऽप्यदः । जलाग्निस्त्रीवर्जको यस्तस्य रत्नोच्चयोऽस्त्वयम् ॥ ८३ ॥ लोकोत्तरमिदं लोकः स्वामिन् ! किं कमीश्वरः ? । इति तेष्वाभाषमाणेष्वभयोऽपौत्यभाषत ॥ ८४ ॥ यदि वो नेदृशः कश्चिद्रनकोटीनयं ततः । जलाग्निस्त्रीमुचः काष्ठभारिणोऽस्तु महामुनेः ॥ ५ ॥