________________
द्वितीयः प्रकाशः ।
४४७
तथैव विदधे राज्ञा राजयोऽन्या विजिता दृशा। देव्या तु शिवया राजा, कथितं चाभयाय तत् ॥ ६४ ॥ अभाषताभयोऽप्येवं महाराज्ञी शिवा स्वयम् । करोतु कूरबलिना भूतानामर्चनं निशि ॥ ६५ ॥ यद्यद्भूतं शिवारूपेणोत्तिष्ठत्यथवासते । तस्य तस्य मुखे देव्या क्षेप्यः कूरबलिः स्वयम् ॥ ६६ ॥ विदधे शिवया तच्चाशिवशान्तिर्बभूव च। तुर्य चादाहरं राजा ययाचे चाभयोऽप्यदः ॥ ६ ॥ स्थितो नलगिरी मण्ठीभूते त्वयि शिवागः। अहं विशाम्यग्निभीरथदारुकतां चिताम् ॥ ६८ ॥ ततो विषम: प्रद्योतो वरान् दातुमशक्नुवन् । विससर्जाञ्जलिं कृत्वा कुमारं मगधेशितुः ॥ ६८ ॥ आशुश्रावाभयोऽप्येवं त्वयाऽऽनीतश्छलादहम् । . दिवा रटन्तं पूर्मध्ये त्वां तु नेष्याम्यसावहम् ॥ ७० ॥ ततोऽभयकुमारोऽगात् क्रमाद्राजगृहे पुरे। . कथमप्यवतस्थे च कञ्चित्कालं महामतिः ॥ ७१ ॥ गृहीत्वा गणिकापुत्यौ रूपवत्यावथाभयः । वणिग्वेषोऽगादवन्त्यां राजमार्गेऽग्रहीहम् ॥ ७२ ॥ प्रद्योतेनेक्षिते ते च दारिके पथि गच्छता। ताभ्यां च सविलासाभ्यां प्रद्योतोऽपि निरीक्षितः ॥ ७३ ॥ प्रद्योतेन गृहे गत्वा रागिणा प्रेषिता ततः । दूतिकाऽनुनयन्त्याभ्यां क्रुद्धाभ्यामपहस्तिता ॥ ७४ ॥