________________
४४५
द्वितीयः प्रकाशः । अग्निभौरूरथो देवी शिवा नलगिरिः करी। लोहजङ्घो लेखवाहो राज्ये रत्नानि तस्य तु ॥ ४४ ॥ लोहजङ्घ नृपः प्रेषीभृगुकच्छे मुहुर्मुहुः । तहतागतसंक्लिष्टास्तत्रत्या इत्य'मन्त्रयन् ॥ ४५ ॥ आयात्ययं दिनेनापि पञ्चविंशतियोजनीम् । असकृयाहरत्यस्मान् हन्मः संप्रत्यमुं ततः ॥ ४६ ॥ ते विमृश्येत्यदुस्तस्य शम्बले विषमोदकान् । तद्भस्त्राशम्बलं चान्यत्समन्तादप्यपाहरन् ॥ ४७॥ कञ्चित्पन्थानमुल्लङ्घय नदीरोधसि शम्बलम् । तद्भोक्तमवतस्थेऽसौऽभूवनशकुनान्यथ ॥ ४८ ॥ शकुननस्तु सोऽभुक्वोत्थाय दूरं ययौ ततः । क्षुधितो भोक्तुकामस्तहारित: शकुनैः पुनः ॥ ४८ ॥ दूरं गत्वा भोक्नुकामः शकुनैर्वारित: पुन: । ततो गत्वा स तत्सर्वं प्रद्योतस्य न्यवेदयत् ॥ ५० ॥ ततो राजा समाहूय तत्पृष्टः श्रेणिकात्मजः । पाथेयभस्त्रामाघ्राय जगाद मतिमानिदम् ॥ ५१ ॥ अस्ति दृष्टिविषोऽत्राहिद्रव्यसंयोगसम्भवः । असौ दग्धो भवेनून भस्त्रामुहाटयेद्यदि ॥ ५२ ॥ ततः परा खोऽरण्ये मोच्य इत्यभयोदिते । तथैव मुमुचे सद्यो दग्धा वृक्षा मृतश्च सः ॥ ५३ ॥
(१)
क छ -वलयन् ।