________________
४४४
योगशास्त्रे तया च विविधैर्भोज्यैरभयोऽकारि भोजनम् । चन्द्रहाससुरामिथपानकानि च पायित: ॥ ३३ ॥ भुक्तोस्थितश्च तत्कालं सुष्वाप श्रेणिकात्मजः । आदिमा मद्यपानस्य निद्रा सहचरी खलु ॥ ३४ ॥ तं रथेन स्थाने स्थाने स्थापितैश्चापरै रथैः । अवन्ती प्रापयामास दुर्लक्ष्यच्छद्मसद्म सा ॥ ३५ ॥ . ततोऽभयान्वेषणाय श्रेणिकेन नियोजिताः । स्थाने स्थानेऽन्वेषयन्तस्तत्रापौयुर्गवेषकाः ॥ ३६ ॥ किमिहाभय आयात इत्युक्ता तैरुवाच सा । इहाभयः समायातः परं यातस्तदैव हि ॥ ३७॥ वचनप्रत्ययात्तस्या अन्यत्रे युगवेषकाः । स्थाने स्थाने स्थापिताश्व: साऽप्यवन्ती समाययौ ॥ ३८ ॥ सा प्रचण्डाऽभयं चण्डप्रद्योतस्यार्पयत्ततः । अभयाऽऽनयनोपायस्वरूपं च व्यजिज्ञपत् ॥ ३८ ॥ तां प्रद्योतोऽप्युवाचैवं न साधु विहितं त्वया । यदम धर्मविश्रब्धं त्वं धर्मच्छद्मनाऽऽनयः ॥ ४० ॥ कथासप्ततिसंशंसी मार्जार्येव शुकोऽनया । नीतिज्ञोऽपि गृहीतोऽसि जगादेत्यभयं च सः ॥ ४१ ॥ अभयोऽप्यब्रवीदेवं त्वमेव मतिमानसि ।। यस्यैवं विधया बुद्ध्या राजधर्मः प्रवईते ॥ ४२ ॥ लज्जितः कुपितश्चाथ चण्डप्रद्योतभूपतिः । राजहंसमिवाक्षेप्सीदभयं काष्ठपञ्जरे ॥ ४३ ॥