________________
द्वितीयः प्रकाशः ।
नष्टे तत्र तु तत्सैन्यं विलोड्याब्धिमिवाखिलम् । हस्त्यश्वाद्याददे सारं मगधेन्द्रः समन्ततः ॥ १०० ॥ नासारूढेन जीवेन वायुवाजेन वाजिना । ततः प्रद्योतनृपतिः कथञ्चित् स्वां पुरीं ययौ ॥ १ ॥ ये चतुर्दश भूपाला ये चान्येऽपि महारथाः । तेऽपि नेशुः काकनाशं हतं सैन्यं ह्यनायकम् ॥ २ ॥ असंयतलुलत्के शैश्छत्रशून्यैश्च मौलिभिः । राजानमनुयान्तस्तेऽप्यापुरुज्जयिनीं पुरोम् ॥ ३ ॥
अभयस्यैव मायेयं वयं नेदृशकारिणः । प्रत्यायितः सशपथं तैरथोज्जयिनीपतिः ॥ ४ ॥ कदाचिदूचेऽवन्तोशो मध्येसभममर्षणः ।
योऽर्पयत्यभयं बड्वा मम सम्पत्स्यते स किम् ॥ ५ ॥ पताकं हस्तमुत्क्षिप्य काऽप्येका गणिका ततः । व्यजिज्ञपदवन्तोशमलमस्मोह कर्मणि ॥ ६ ॥ तामादिदेशावन्तौशो यद्येवमनुतिष्ठ तत् । करोम्यर्थादिसाहाय्यं ब्रूहि किं तव संप्रति ? ॥ ७ ॥ सां च दध्यौ यदभयो नोपायैर्गृह्यतेऽपरेः । धर्मच्छद्म तदादाय साधयामि समोहितम् ॥८॥ अयाचत ततश्च हे द्वितीयवयसौ स्त्रियौ । ते तदैवापयद्राजा ददौ द्रव्यं च पुष्कलम् ॥ ॥ कृतादराः प्रतिदिनमुपास्योपास्य संयताः | बभूवुरुत्कटप्रज्ञास्तास्तिस्रोऽपि बहुश्रुताः ॥ १० ॥
५६
४४१