SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ ४४० योगशास्त्रे यथार्थनामा राजानमभयोऽथ व्यजिज्ञपत् । का चिन्तोज्जयिनोगोऽद्य भूयाद्युद्धातिथिर्मम ॥ ६० ॥ यदि वा 'बुद्धिसाध्येऽर्थे शस्त्राशस्त्रिकथा तथा । बुद्धिमेव प्रयोक्ष्ये तद्दुद्धिर्हि जयकामधुक् ॥ ८१ ॥ अथ बाह्येऽरिसैन्यानामावासस्थानभूमिषु । लोहसंपुटमध्यस्थान् दीनारान् स न्यचीखनत् ॥ ८२ ॥ प्रद्योतनृपतेः सैन्यैस्ततो राजग्टहं पुरम् । पर्यवेष्ट्यत भूगोलः पयोधिसलिलैरिव ॥ ८३ ॥ अथेत्थं प्रेषयामास लेखं प्रद्योतभूपतेः । अभयो गुप्तपुरुषैः परुषेतरभाषिभिः ॥ ८४॥ शिवादेवीचेल्लणयोर्भेदं नेक्षे मनागपि । तन्मान्योऽसि शिवादेवीसम्बन्धेनापि सर्वदा ॥ १५ ॥ तदवन्तोश ! वच्मि त्वामेकान्तहित काङ्क्षया । सर्वे श्रेणिकराजेन भेदितास्तव भूभुजः ॥ ८६ ॥ दीनाराः प्रेषिताः सन्ति तेभ्यस्तान् कर्त्तुमात्मसात् । ते तानादाय बड्वा त्वामर्पयिष्यन्ति मत्पितुः ॥ ८७ ॥ तदावासेषु दौनारा निखाताः सन्ति तत्कृते । खानयित्वा पश्य को वा दीपे सत्यग्निमीक्षते ॥ ८८ ॥ विदित्वैवं स भूपस्यैकस्यावासमचोखनत् । लब्धास्तत्र च दीनारास्तान् दृष्ट्वाऽऽशु पलायत ॥ ८८ ॥ ( १ ) (२) कग छ बुध - । क ग छ -वाच्छया ।
SR No.002394
Book TitleYogshastra Part 03
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1910
Total Pages204
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy