SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ द्वितीयः प्रकाशः । ४३८ ततो नन्दां समानेतुममन्दानन्दकन्दलः । न्ययुक्त सर्वसामग्रीमग्रेवत्य नृपोऽभयम् ॥ ७ ॥ ततः स्वयमपि प्राज्योत्कण्ठोलिखितमानसः । नन्दामभिययौ राजा राजहंस इवाजिनीम् ॥ ८० ॥ शिथिलीभूतवलयां कपोललुलितालकाम् । पनमनाक्षी कबरीधारिणों मलिनांशुकाम् ॥ ८१ ॥ तनोस्तनिमा दधती द्वितीयेन्दुकलातुलाम् । - ददर्श राजा सानन्दो नन्दामुद्यानवासिनीम् ॥८२॥(युग्मम्) नन्दामानन्ध नृपतिर्नीत्वा च खं निकेतनम् । पट्टराज्ञीपदेऽकार्षीत् सौतामिव रघूहहः ॥ ८३ ॥ भक्तितः पितरि स्वस्य पदातिपरमाणुताम् । मन्वानः साधयामास दुःसाधान् भूभुजोऽभयः ॥ ८४ ॥ अन्यदोज्जयिनीपुर्य्याश्चण्डप्रद्योतभूपतिः । चलितः सर्वसामग्रा रोडुं राजगृहं पुरम् ॥ ८५ ॥ प्रद्योतो बद्धमुकुटाश्चतुर्दश पर नृपाः ।। तत्रायान्तो जनैर्दृष्टाः परमाधार्मिका इव ॥ ८६ ॥ पाटूपटप्नुतैरश्वैः पाटयब्रिव मेदिनीम् ।। आगच्छन् प्रणिधिभ्योऽथ शुश्रुवे श्रेणिकेन सः ॥ ८७ ॥ किञ्चिन्च चिन्तयामास प्रद्योतोऽद्य समापतन् । क्ररग्रह इव ऋतः कार्यो हतबलः कथम् ? ॥ ८८ ॥ ततोऽभयकुमारस्योत्पत्तिक्यादिधियां निधेः । नृपतिर्मुखमैक्षिष्ट सुधामधुरया दृशा ॥ ८ ॥
SR No.002394
Book TitleYogshastra Part 03
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1910
Total Pages204
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy