________________
द्वितीयः प्रकाशः 1
*वयं पाण्डुरकुड्या गोपाला राजगृहे पुरे । आह्वानमन्त्रप्रतिमान्यतराणीति चार्पयत् ॥ ३८ ॥ माऽन्या तातस्य रोगार्त्तेर्मदर्त्तिर्भूदिति द्रुतम् । उष्ट्रौं श्रेणिक आरुह्य ययौ राजग्टहं पुरम् ॥ ३८ ॥ तं दृष्ट्वा मुदितो राजा हर्षनेत्राभिः समम् । राज्येऽभ्यषिञ्चद्दिमलैः सुवर्णकलशाम्बुभिः ॥ ४० ॥ राजाऽपि संस्मरन् पाखं जिनं पञ्चनमस्कियाम् । चतुःशरणमापन्नो विपद्य त्रिदिवं ययौ ॥ ४१ ॥ विश्वं विश्वम्भराभारं बभार श्रेणिकस्ततः । तेन सा गुर्विणी मुक्ता गर्भं नन्दाऽपि दुर्वहम् ॥ ४२ ॥ तस्या दोहद इत्यासोद्गजारूढा शरीरिणाम् । महाभूत्योपकुर्वाणा भवाम्यभयदा यदि ॥ ४३ ॥ विज्ञपय्याथ राजानं तत्पित्रापूरि दोहदः । पूर्णे काले च साऽसूत प्राची रविमिवार्भकम् ॥ ४४ ॥ दोहदार्थानुसारेण तस्याथ दिवसे शुभे । चकाराभयकुमार इति मातामहोऽभिधाम् ॥ ४५ ॥ सक्रम विद्या निरवद्या: पपाठ च । अष्टवर्षोऽभवद्दक्षो द्वासप्तत्यां कलासु च ॥ ४६ ॥
(१) श्रीचन्द्र तिलकोपाध्यायकते, अभयकुमारचरितेः-“यतोऽयमर्थः : पाण्डुरकुड्याः धवलभित्तयः ।
४३५
मोपालाः पृथिवीपाला गोशब्दोऽवनिवाचकः " ॥ १ ॥ इति ।