________________
योगशास्त्र
नन्दायोग्यो वरो दृष्टः स्वप्नेऽद्य निशि यो मया । असौ साक्षात् स एवेति श्रेष्ठी चेतस्यचिन्तयत् ॥ २८ ॥ सोऽभाषिष्ट च धन्योऽस्मि यद्भवस्यतिथिर्मम । असावलसमध्येन ननु गङ्गा समागता ॥ २८ । संवत्याई ततः श्रेष्ठी तं नीत्वा निजवेश्मनि । स्नपयित्वा परिधाप्य सगौरवमभोजयत् ॥ ३० ॥ एवं च तिष्ठंस्तहेहे श्रेणिकः श्रेष्ठिनाऽन्यदा । कन्यां परिणयेमां मे नन्दा नाम्नेत्ययाच्यत ॥ ३१ ॥ ममाज्ञातकुलस्यापि कथं दत्से सुतामिति। श्रेणिकेनोक्त ऊचे स ज्ञातं तव गुणैः कुलम् ॥ ३२ ॥ ततस्तस्योपरोधेनोदधेरिव सुतां हरिः। श्रेणिकः पर्यणेषीत्तां भवदवलमङ्गलम् ॥ ३३ ॥ भुञ्जानो विविधान् भोगान् सह वल्लभया तया । अतिष्ठच्छ्रेणिकस्तत्र निकुन्ज व कुञ्जरः ॥ २४ ॥ श्रेणिकस्य स्वरूपं तद्दिवेदाशु प्रसेनजित् । सहस्राक्षा हि राजानो भवन्ति चरलोचनैः ॥ ३५ ॥ उग्रं प्रसेनजिद्रोग प्रापाथान्तं विदब्रिजम् । सुतं श्रेणिकमानेतुं शीघ्रानादिक्षदौष्ट्रिकान् ॥ ३६ ॥ औष्ट्रिकेभ्यो 'ज्ञातयाऽऽतः पितुरत्यर्त्तिवार्त्तया । नन्दां संबोध्य सस्नेहं प्रतस्थे श्रेणिकस्ततः ॥ ३७ ॥
(१) ग ज्ञातवार्तः।