________________
द्वितीयः प्रकाशः ।
किमेतत्कृष्टमित्युक्तो नृपेण श्रेणिकोऽवदत् । जयस्य चिह्नं भम्भेयं प्रथमं पृथिवीभुजाम् ॥ १७ ॥ अस्याः शब्देन भूपानां दिग्यात्रामङ्गलं भवेत् । रक्षणीया क्षमापालैः स्वामिंस्तदियमात्मवत् ॥ १८ ॥ ततः परीक्षानिर्वाहज्ञातबुद्धिर्महीपतिः ।
तस्य प्रीतो ददौ भम्भासार इत्यपराभिधाम् ॥ १८ ॥ राज्यार्हमानिनो मैनं राज्याहं सूनवोऽपरे । ज्ञासिषुरित्यवाज्ञासोच्छ्रेणिकं पृथिवीपतिः ॥ २० ॥ पृथक् पृथक् कुमाराणां ददौ देशान्नरेश्वरः । न किञ्चिच्छ्रेणिकस्यास्तु राज्यमस्यायताविति ॥ २१ ॥ ततोऽभिमानी खपुरात्कलभः काननादिव । निःसृत्य श्रेणिकोऽगच्छत्तूर्णं वेणातटं पुरम् ॥ २२ ॥ तत्र च प्रविशन् भद्राभिधस्य श्रेष्ठिनोऽथ सः । कर्म लाभोदयं मूर्त्तमिवोपाविशदापणे ॥ २३ ॥ तदा च नगरे तस्मिन् विपुलः कश्चिदुत्सवः । नव्यदिव्यदुकूलाङ्गरागपौराऽऽकुलोऽभवत् ॥ २४ ॥ प्रभूतक्रायकैरासीत् स श्रेष्ठी व्याकुलस्तदा । कुमारोऽप्यार्पयद्ददुद्ध्वाऽस्मै पुटाऽपुटिकादिकम् ॥ २५ ॥ द्रव्यं कुमारमाहात्मप्राच्छ्रेष्ठो भूयिष्ठमार्जयत् । पुण्यपुंसां विदेशेऽपि सहचर्य्यो ननु श्रियः ॥ २६ ॥ अद्यावितथपुण्यस्य कस्यातिथिरसीत्यथ । श्रेणिकः श्रेष्ठिना पृष्टो भवतामित्यभाषत ॥ २७ ॥
५५
४३३