________________
४३२
योगशास्त्रे ततो भोक्तुं प्रवृत्तानां कुमाराणाममोचयत् । व्याघ्रानिव व्यात्तवक्त्रान् सारमेयान् स सारधीः ॥ ६ ॥ कुमारा द्रुतमुत्तस्थुरापतत्सु ततः खसु । एकस्तु श्रेणिकस्तस्थौ धियां धाम तथैव हि ॥ ७ ॥ सोऽन्यस्थालात्यायसानं स्तोकं स्तोकं शुनां ददौ । यावल्लिलिहिरे खानस्तावच्च बुभुजे स्वयम् ॥ ८ ॥ येन केनाप्युपायेन निषेधिष्यत्यरौनयम् । भोक्ष्यते च स्वयं पृथ्वी राजा तेनेति रञ्जितः ॥ ८ ॥ राजा पुनः परीक्षार्थ सुतानामन्यदा ददौ । मोदकानां करण्डांश्च पयस्कुम्भांश्च मुद्रितान् ॥ १० ॥ इमां मुद्रामभञ्जन्तो भुञ्जीवं मोदकानमून्। . पयः पिबत मा क छिद्रमित्यादिशबृपः ॥ ११ ॥ विना श्रेणिकमेतेषां कोऽपि नामुक्त नापिबत् । बुद्धिसाध्येषु कार्येषु कुर्युरूजविनोऽपि किम् ? ॥ १२ ॥ चलयित्वा चलयिखा श्रेणिकोऽथ करण्डकम् । बुभुजे मोदकक्षोदं शलाकाविवरच्युतम् ॥ १३ ॥ रौप्यशक्त्या घटस्थाधो गलहाबिन्दुपूर्णया । स पयोऽपि पपौ किं हि दुःसाधं सुधियां धियः ॥ १४ ॥ तत्प्रेक्ष्य नृपतिः प्रीतो जातेऽन्येद्युः प्रदीपने । यो यदृह्णाति महेहात्तत्तस्येत्यादिशत्सुतान् ॥ १५ ॥ सर्वे ग्टहीत्वा रत्नानि कुमारा निर्ययुस्ततः । आदाय भम्भां त्वरितः श्रेणिकस्तु विनिर्ययौ ॥ १६ ॥