________________
४३१
द्वितीयः प्रकाशः। इदानीमसन्तोषफलोपदर्शनपूर्वकं सन्तोषफलमाहअसन्तोषवतः सौख्यं न शक्रस्य न चक्रिणः । जन्तोः सन्तोषभाजो यदभयस्येव जायते ॥ ११४ ॥
सन्तोषरहितस्य तत्फलभूतं सौख्यं न शक्रस्य देवराजस्य, नापि चक्रिणो मनुजराजस्य ; यत्सौख्यं सन्तोषवतो जन्मिनो जायते। कस्यवेत्याह-अभयस्य अभयकुमारस्य श्रेणिकराजपुत्रस्य । स हि पित्रोपनौतमपि राज्यं परिहृत्य शमसाम्राज्यसम्पदं परिग्रहीतवानिति । कथानकं च सम्प्रदायगम्यम् । स चायम्
अस्तीह भरतक्षेत्र केदारमिव सुन्दरम् । विशालशालिकमलं नाना राजगृहं पुरम् ॥ १ ॥ तत्र प्रसेनजिन्नाम 'नमिताशेषभूपतिः । पतिर्वारामिवालब्धमध्योऽभूत्पृथिवीपतिः ॥ २ ॥ श्रीमत्याजिनाधीशशासनाम्भोजषट्पदः । सम्यग्दर्शनपुण्यात्मा सोऽणव्रतधरोऽभवत् ॥ ३ ॥ ओजसा तेजसा कान्त्या जितामरकुमारकाः । कुमारास्तस्य बहवो बभूवुः श्रेणिकादयः ॥ ४ ॥ को राज्ययोग्य इत्येषां परीक्षार्थं महीपतिः । एकत्र पायसस्थालान्यशनायकदाऽऽर्पयत् ॥ ५ ॥
(१) खच नामिता-|