________________
४३.
योगशास्त्रे
पच्यमानो भृज्यमानो दह्यमान इव व्यथाम् । अवाप नन्दः, स्तोकं हि सर्व तादृक्षपाप्मनः ॥ २५ ॥
ये भूतले विनिहिता गिरिवच्च कूटीभूताच येऽद्य मम काञ्चनराशयस्ते । कस्य स्युरित्यभिग्रणबविटप्त एव मृत्वा निरन्तभवदुःखमवाप नन्दः ॥ २६ ॥
॥ इति नन्दकथानकम् ॥ ११२ ॥
अपि च योगिनामपि परिग्रहमुपग्रह्णतां लाभमिच्छतां
मूलक्षतिरायातत्याह
तपःश्रुतपरीवारां शमसामाज्यसंपदम् । परिग्रहग्रहग्रस्तास्त्यजेयुर्योगिनोऽपि हि ॥ ११३ ॥
योगो रत्नत्रयप्राप्तिस्तद्वन्तो योगिनस्तेऽपि, आसतां पृथगजनाः; परिग्रह एव ग्रहस्तद्ग्रस्ताः पिशाचकिन इव शमसाम्राज्यसंपदं खाधीनामपि त्यजेयुः, शमस्य विष्णतायाः, साम्राज्यं परमैश्वर्य, तद्रूपा सम्पत् ताम् । साम्राज्यं च नैकाकिनो भवतीत्याहतपःश्रुतपरीवारां तपश्चारित्रं, श्रुतं सम्यग्ज्ञानं, ते एव परीवारः परिच्छदो यस्यास्तां तथाविधाम् । शमसाम्राज्यसंपदं स्वाधीनां परित्यज्य सुखार्थिन: परिग्रहलवलुब्धा मूलमुच्छेद्य लाभमिच्छन्तीत्यर्थः ॥ ११३ ॥