________________
द्वितीयः प्रकाशः |
सोऽनुज्ञातो नृपेणोचे श्रुत्वा मत्स्वामिवाचिकम् । कोपितव्यं न देवेन न हिताश्वाटुभाषिणः ॥ १४ ॥ अवर्णवादो देवस्य यः परम्परया श्रुतः । स प्रत्यक्षीकृतो ह्यद्य न निर्मूला जनश्रुतिः ॥ १५ ॥ अन्यायतोऽर्थलेशोऽपि राज्ञः सर्वयशश्किदे । अप्येकं तुम्बिकाबीजं गुडभारान् विनाशयेत् ॥ १६ ॥ आत्मभूताः प्रजा राज्ञो राजा न च्छेत्तुमर्हति । क्रव्यादा अपि न क्रव्यं निजमश्नन्ति जातुचित् ॥ १७ ॥ प्रजाः पुषाण पुष्णन्ति पोषिता एव ता नृपम् । वश्याऽपि न ह्यनड्डाही दत्ते दुग्धमपोषिता ॥ १८ ॥ सर्वदोषप्रसूर्लोभो लोभः सर्वगुणापहः ।
लोभस्तत्त्यज्यतामेतत्त्वद्दितो वक्ति मत्प्रभुः ॥ १८ ॥ नन्दोऽपि तद्गिरा दावदग्धभूरिव वारिणा ।
४२८
अत्युष्णबाष्पममुचद् दग्धुकाम इवाशु तम् ॥ २० ॥ राजदौवारिको जातु न वध्य इति नन्दराट् । उत्थाय गर्भवेश्मान्तः सशिरोऽर्त्तिरिवाविशत् ॥ २१ ॥ नासौ सदुपदेशानां जवासक इवाम्भसाम् । योग्य इत्यामृशन् दूतोऽप्यगात् स्वस्वामिनोऽन्तिकम् ॥२२॥ नन्दोऽप्यन्यायपापोत्थैर्वेदनादानदारुणैः ।
रोगैरिहापि संप्राप्तः परमाधार्मिकैरिव ॥ २३ ॥
वेदनाभिर्दारुणाभिः पीड्यमानो यथा यथा । नन्दश्चक्रन्द, लोकोऽभूज्जातानन्दस्तथा तथा ॥ २४ ॥