________________
४२८
योगशास्त्रे सोऽकराणां करं चक्रे सकराणां महाकरम् । महाकराणामपि च किञ्चिच्चक्रे करान्तरम् ॥ ३ ॥ यं कञ्चिद्दोषमुत्पाद्य धनिभ्यो धनमग्रहीत् । छलं वहति भूपानां हलं नेति नयं वदन् ॥ ४ ॥ सर्वोपायईनं लोकानिष्कृपः स उपाददे । अपामब्धि पोऽर्थानां पात्रं नान्य इति ब्रुवन् ॥ ५ ॥ तथाऽर्थं सोऽग्रहोल्लो काल्लोकोऽभूनिधनो यथा । भूमावूर्णायुचीर्णायां न खलु प्राप्यते तृणम् ॥ ६ ॥ हिरण्यनाणकाऽऽख्याऽपि तेन लोकेषु नाशिता । प्रवृत्तो व्यवहारोऽपि चर्मणो नाणकैस्तदा ॥ ७ ॥ पाखण्डिनोऽपि वेश्या अप्यसावर्थमदण्डयत् । । हुताशनः सर्वभक्षी नहि किञ्चिहिमुञ्चति ॥ ८॥ श्रीवौरमोक्षादेकोनविंशत्यब्दशतेषु यः । साग्रेषु भावी किं सोऽयं कल्कीति जनवागभूत् ॥ ८ ॥ आक्रोशान् पश्यतोऽप्यस्य भूमिभाजनभोजनः । जनो ददौ गतभयो, भयं भवति भाजने ॥ १० ॥ स स्वर्णः पर्वतांश्चक्रे पूरयामास चावटान् । भाण्डागाराणि चापूरि पूर्णकामस्तु नाभवत् ॥ ११ ॥ आकर्ण्य तत्तथाऽयोध्यानाथेनाथ हितैषिणा । तं प्रबोधयितुं वाग्मी दूत: प्रेषित आगमत् ॥ १२ ॥ सर्वतोऽप्याहृतश्रीकं नि:श्रीकं तं तथापि हि । दूतो भूपमथापश्यन्नत्वा चोपाविशत्पुरः ॥ १३ ॥