________________
हितीयः प्रकाशः ।
४२७ पुनः सुभिक्षे धान्यं स क्रीवा क्रीत्वा समग्रहीत् । लब्धास्वादः पुमान् यत्र तत्रासक्तिं न मुञ्चति ॥ ५ ॥ कोटकोटिवधं नैषोऽजीगणत् कणसंग्रहे । पीडां पञ्चेन्द्रियाणामप्यतिभाराधिरोपणात् ॥ ६ ॥ नैमित्तः कोऽपि तस्याख्यद्भाविदुर्भिक्षमैषमः । सर्वस्वनाथ सोऽक्रोणात्कणान् पुनरप्तिकः ॥ ७ ॥ वृड्याऽपि द्रव्यमाकृष्थाग्रहीद्धान्यमनेकधा । स्थानाभावे रहे क्षेप्सीत् किं न कुर्वीत लोभवान् ॥ ८ ॥ असौ जगदमित्रस्य मित्रस्येवोन्मनास्ततः । दुर्भिक्षस्येष्यतो मार्गमीक्षाञ्चक्र दिने दिने ॥ ८ ॥ अथ वर्षाप्रवेशेऽपि ववर्षापत्य सर्वतः । धारासारैर्धनस्तस्य हृदयं दारयन्निव ॥ १० ॥ गोधूममुगकलमाश्चण कामकुष्टा माषास्तिलास्तदपरेऽपि कणा विनश्य । यास्यन्ति संप्रति हहेति स तैरटप्तो हृत्स्फोटजातमरणाबरकं प्रपदे ॥ ११ ॥
॥ इति तिलकष्ठिकथानकम् ॥ प्राच्यां महेन्द्रनगरीप्रतिबिम्बमिवोच्चकैः । आख्यया पाटलीपुत्रमित्यस्ति प्रवरं पुरम् ॥ १ ॥ आसीत्तत्रातिसुत्रामा शत्रुवर्गविसूत्रणे । त्रिखण्डवसुधाधीशो नन्दो नाम नरेश्वरः ॥ २ ॥
(१) क ग छ -मरणो।