SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ ४२६ योगशास्त्रे कुचिको विभज्यैता आर्पयत् कस्यचित् सिताः । कृष्णाः कस्यापि कस्यापि रक्ताः पीताश्च कस्यचित् ॥ ४ ॥ पृथक् पृथगरण्येषु गोकुलानि न्यवेशयत् । भुञ्जानो दधिपयसी सोऽवसत्तेषु च क्रमात् ॥ ५ ॥ अन्वहं वर्द्धयामास गोष्ठे गोष्ठे स गोधनम् । अटप्तो दधिपयसोः सुराया इव दुर्मदः ॥ ६ ॥ . तस्याभवदथाजीर्णमध उद्धं सरद्रसम् । प्रदीपनान्त:पतितस्येव दाहो महानभूत् ॥ ७ ॥ हा धेनवो हा नवतर्ण काश्च .. हा शाकरा वः क्व कदा च लप्से । स गोधनैरेवमटप्त एव मृत्वाऽथ तिर्यग्गतिमाससाद ॥ ८॥ ॥ इति कुचिकर्णकथानकम् ॥ श्रेष्ठयासौत्तिलको नाम पुरेऽचलपुरे पुरा। असौ पुरेषु ग्रामेषु चाकरोद्धान्यसंग्रहम् ॥ १ ॥ माषमुगतिलब्रीहिगोधूमचणकादिकम् । ददी साड़िकया धान्यं काले साई च सोऽग्रहीत् ॥ २ ॥ धान्यैर्धान्यं धनैर्धान्यं धान्यं जीवधनैरपि । उपायैश्चाग्रहीद्धान्यं ध्यायन् धान्यं स तत्त्ववत् ॥ ३ ॥ दुर्भिक्षकाले धान्येभ्यः प्रत्युपात्तैर्महाधनैः । बभार परितो धान्यैरिवासी धान्यकोष्ठकान् ॥ ४ ॥
SR No.002394
Book TitleYogshastra Part 03
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1910
Total Pages204
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy