SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ द्वितीयः प्रकाशः । ४२५.. उदन्तेन ततस्तेन दारुणेनाथ मुर्छितः । पपात भूपतिर्भूमौ पर्वतः पविनेव सः ॥ ४३ ॥ लब्धसंज्ञस्ततो राजा रुदित्वा जनवत्क्षणम् । भेजे संसारवैराग्यं चिन्तयामास चेत्यसौ ॥ ४४ ॥ अन्वयं मण्डयिष्यन्ति प्रोणयिष्यन्ति मां सुताः । इत्याशा धिग्ममासारं संसारं जानतोऽप्यभूत् ॥ ४५ ॥ हिस्त्रिचतुरैः पञ्चषैर्वाऽन्येषां भवेत्कथम् । .. पुस्तृप्तिरियन्मात्रैरपि यन्मे बभूव न ॥ ४६ ... प्ति कथममी कुर्युस्तावन्तोऽपि ममात्मजाः । ईदृग्गतिमकाण्डेऽयुरटप्ताः प्राणितस्य ते ॥ ४७ ॥ इत्थं विचिन्त्याथ सुतैरटप्तिकः स तत्क्षये ज[सुतं भगीरथम् । राज्ये निवेश्याजितनाथसन्निधौ प्रव्रज्य वव्राज तदक्षयं पदम् ॥ ४८ ॥ ॥ इति सगरचक्रिकथानकम् ॥ ग्रामः सुघोषो नामाऽभून्मध्ये मगधनोवृतः । .. कुचिकर्णाभिधानश्च ग्रामणौस्तत्र विश्रुतः ॥ १ ॥ गवां शतसहस्राणि तस्य संजज्ञिरे क्रमात् । बिन्दुना बिन्दुना हन्त भियते हि सरोवरम् ॥ २ ॥ गोपालानां पालनाय सोऽपयामास गास्ततः । भव्या मम न ते भव्या इत्ययुध्यन्त ते बहिः ॥ ३ ॥ ५४
SR No.002394
Book TitleYogshastra Part 03
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1910
Total Pages204
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy