________________
४२३
हितीयः प्रकाशः । अजितस्वामिभाटव्यैः पुत्रैः सगरचक्रिणः। किमेतरिक्रयते पापमरे रे ! कुलपांसनाः ! ॥ २१ ॥ जगुरूचे मयाऽत्रैत्य चैत्यं त्रातुमदः कतम् । युष्मद्भवनभङ्गोऽभूद्यदज्ञानात्स सह्यताम् ॥ २२ ॥ अज्ञानकतमागोऽदः सोढं ते मा कथाः पुनः । इत्युदीर्य निजं धाम जगाम ज्वलनप्रभः ॥ २३ ॥ सानुजोऽचिन्तयज्जगुः कृतेयं परिखा परम् । परिपूरिष्यते पांशपूरैः कालेन गच्छता ॥ २४ ॥ ततः स कृष्ट्वा दण्डेन गङ्गां तत्राक्षिपद्धशम् । उपद्रुतानि तत्तोयैः पुनर्वेश्मानि भोगिनाम् ॥ २५ ॥ क्रुद्धोऽथैत्य समं नागकुमारैज्वलनप्रभः । तान् दृष्ट्वा भस्मसाच्चक्रे दवानल इव द्रुमान् ॥ २६ ॥ धिग्धिग्नः खामिनः मुष्टाः लोबानामिव पश्यताम् । ह्रियेत्ययोध्यासविधे तस्थुरागत्य सैनिकाः ॥ २७ ॥ खं मुखं दर्शयिष्यामो वक्ष्यामोऽदः कथं प्रभोः । इति मन्त्रयतां तेषां कोऽप्येत्येत्यवदद् दिजः ॥ २८॥ कथयिष्याम्यदो राज्ञो न च मोहो भविष्यति । उत्तरिष्यत्यवद्यं वो मा भूत व्याकुला ननु ॥ २८ ॥ इत्यत्वा मृतकं कच्चिदादायानाथमभ्यगात् । राजहारे मृतापत्य इव स व्यलपत्ततः ॥ ३० ॥ राज्ञाऽप्रच्छि ततोऽवादोदयमेकः सुतो मम । दष्टः सर्पण निश्चेष्टस्तद्देवो जीवयवमुम् ॥ ३१ ॥