________________
द्वितीयः प्रकाशः ।
४१६ सिड, ततः किं तेषामारम्भाणां हेतुः कारणं, परिग्रहः, यत एवं तस्मादुपासकः साधूपासकः परिग्रहं धनधान्यादिकमल्पमस्यं नियतपरिमाणं कुर्यात् ॥ ११० ॥
पुनरपि सिंहावलोकितेन परिग्रहदोषानाहमुष्णन्ति विषयास्तेनादहति स्मरपावकः । कन्धन्ति वनिताव्याधाः सङ्गैरङ्गीकृतं नरम्॥१११॥ सङ्गैर्धनधान्यहिरण्यादिपरिग्रहैरङ्गीकृतं वशीकतं यथा बहुपरिग्रहं कान्तारगतं पुरुषं चौरा मुष्णन्ति तथा संसारकान्तारगतं विषयाः शब्दादयः संयमसर्वखापहारेण मुष्णन्ति निईनीकुर्वन्ति । यथा वा बहुपरिग्रहं नंष्टुमशक्नुवन्तं दीप्तो दवाग्निदहति तथा संसारकान्तारगतं मन्मथाग्निश्चिन्तादिना दशप्रकारेण विकारण दहत्युपतापयति। यथा वा बहुपरिग्रहं कान्तारगतं व्याधा लुब्धका धनशरीरलोभन रुन्धन्ति पलायितुमपि न ददति, तथा भवकान्तारगतं वनिताः कामिन्यो धनार्थिन्यः शरीरभोगार्थिन्यश्च खातन्त्रावृत्तिनिषेधेन रुन्धन्ति । अपि च । बहुनापि परिग्रहेण कानावतां न ढप्तिः सम्भवति अपि त्वसन्तोष एव वर्द्धते ।
यमुनयः
'सुवस्मरुप्पस्म य पब्वया भवे सिा हु केलाससमा असङ्गया।
(१) सुवर्णरूप्यस्य च पर्वता भवे स्यः खलु कैलासममा अममयकाः ।