________________
४१८
योगशास्त्रे
यत् यस्मान्मुनेरपि आस्तामन्यस्य चलेत् प्रशमावस्थायाश्चावेत् चेतो मनः तेन सङ्गेन आन्दोलितात्मन अस्थिरीकृतात्मनः । मुनिरपि हि सङ्गानङ्गीकुर्वन्मुनित्वाद् भ्रश्यत्येव ।
यदाह
'छेओ भेओ वसणं आयास किले सभयविवागो अ । मरणं धम्मब्र्भसो अरई अत्थाओ सव्वाइं ॥ १ ॥ * दोसमय मूलजालं पुव्वरिसिविवज्जियं जई वतं । अत्यं वहसि अत्यं कीस निरत्यं तवं चरसि ॥ २ ॥ 'वहबंधणमारणसेहणाओ काओ परिग्गहे णत्थि । तं जइ परिग्गहो चिय जदूधम्मो तो गणु पवंचो ॥ ३ ॥ १०८ ॥ सामान्येन परिग्रहस्य दोषानभिधाय प्रकृतेन श्रावकधर्मेणाभिसंबध्नाति -
संसारमूलमारम्भास्तेषां हेतुः परिग्रहः । तस्मादुपासकः कुर्यादल्पमल्पं परिग्रहम् ॥ ११०॥
आरम्भा: प्राण्युपमर्दादयस्ते संसारस्य मूलम् ; एतदविवाद
(१) छेदो भेदो व्यसनं श्रायासक्लेशभयविपाकाश्च । मरणं धर्मभ्भ्रंशः अरतिरर्थात् सर्वाणि ॥ १ ॥ (२) दोषशतमूलजालं पूर्वर्षिविवर्जितं यदि वान्तम् । च्ार्थं वहसि अनर्थं कस्मान्निरर्थं तपश्चरसि ॥ २ ॥ (३) बधबन्धनमारण मेधनाः काः परिग्रहे न सन्ति ।
तदु यदि परिग्रह एव यतिधर्मस्ततो ननु प्रपञ्चः ॥ २ ॥