________________
द्वितीयः प्रकाशः ।
४१७ तथा'कंचणमणिसोवाणं थंभसहस्मोसियं सुवसतलं ।
जो कारिज्न जिणहरं तत्रोवि तवसंजमो 'अहिो * ॥ १॥ . व्यतिरेकमाह
दोषास्तु, दोषाः पुनः पर्वतस्थूला अतिमहान्तो वक्ष्यमाणाः परिग्रहे सति प्रादुष्षन्ति प्रादुर्भवन्ति ॥ १०८ ॥
दोषास्तु पर्वतस्थूला इति यदुक्तं तत् प्रपञ्चयति. सङ्गाद्भवन्त्यसन्तोऽपि रागद्देषादयो दिषः ।
मुनरपि चलेच्चेतो यत्तेनान्दोलितात्मनः ॥१०॥ सङ्गात्परिग्रहावेतोर्भवन्ति प्रादुर्भवन्ति असन्तोऽपि उदयावस्थामप्राप्ता अपि रागद्देषप्रभृतयः शत्रवः । सङ्गवतो हि तत्रिबन्धनो रागः प्रादुर्भवति। सङ्गप्रतिपन्थिषु च देषः, एवं मोहभयादयो वधबन्धादयो नरकपातादयश्च द्रष्टव्याः। तदिदं पर्वतस्थूलत्वं दोषाणाम् । कथमसन्तोऽपि रागादयो भवन्तीति, उच्यते,
(१) काञ्चनमणिसोपानं स्तम्भसहस्रोच्छ्रितं सुवर्णतलम् ।
यः कारयेज्जिनग्टहं ततोऽपि तपःसंयमोऽधिकः ॥ १ ॥ (२) क छ ड ढ अणंतगुणो। * संबोधसत्तरित्तौ तु
कंचणमणिसोवाणे थम्भसहस्मृसिए सवचतले । जो कारबेज्ज जिणहरे तोवि तवसंजमो अशंतगुणो त्ति ॥
एवं पाठो दृश्यते ।