SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ ४१६ योगशास्त्रे 'महारंभयाए महापरिग्गहयाए कुणिमाहारेणं पंचिंदियवहेणं जीवा नरयाउयं अज्नंति । तथा बह्वारम्भपरिग्रहत्वं च नारकस्यायुष इति यस्मादेवं तस्मात्त्यजेन्नियन्त्रयेत् परिग्रहं धनधान्यादिरूपं मूर्च्छारूपं वा ॥ १०७ ॥ सामान्येन परिग्रहदोषानाह - वसरेणुसमोऽप्यत्र न गुणः कोऽपि विद्यते । दोषास्तु पर्वतस्थूलाः प्रादुष्षन्ति परिग्रहे ॥ १०८ ॥ त्रसरेणवो गृहजालान्तः प्रविष्ट सूर्यकिरणोपलक्ष्याः सूक्ष्मा द्रव्यविशेषास्तत्समोऽपि तत्प्रमाणोऽपि अत्र परिग्रहे न कश्चन गुणोऽस्ति, नहि परिग्रहबलादामुष्मिकः पुरुषार्थः सिद्धयति । यस्तु भोगोपभोगादिः स न गुणः प्रत्युत गर्दहेतुत्वाद्दोष एव । योsfu जिनभवनविधानादिलक्षणः परिग्रहस्य गुणः शास्त्रे वर्ण्यते न सं गुणः, किं तु परिग्रहस्य सदुपयोगव्यावर्णनं न तु तदर्थमेव परिग्रहधारणं श्रेयः । यदाहु: - धर्मार्थं यस्य वित्तेहा तस्यानोहा गरीयसी । प्रक्षालनाद्धि पङ्गस्य दूरादस्पर्शनं वरम् ॥ १ ॥ (१) महारम्भतया महापरिग्रहतया कुणिमाहारेण पञ्चेन्द्रियबधेन जीवा नरकायुष्कमर्जन्ति |
SR No.002394
Book TitleYogshastra Part 03
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1910
Total Pages204
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy