________________
द्वितीयः प्रकाशः।
४११ स्त्रीणां पादैहन्यमानमात्मानं बहु मन्यते । हताशो न तु जानाति क्षेप्यमाणमधोगतौ ॥ २१ ॥ दर्शनात् स्पर्शनाच्छेषाद या हन्ति शमजीवितम् । हेयोग्रविषनागोव वनिता सा विवेकिभिः ॥ २२ ॥ इन्दुलेखेव कुटिला सन्ध्येव क्षणरागिणी। निम्नगव निम्नगतिर्षजनीया नितम्बिनी' ॥ २३ ॥ न प्रतिष्ठां न सौजन्यं न दानं नच गौरवम् । नच वान्यहितं वामाः पश्यन्ति मदनान्धलाः ॥ २४ ॥ निरजुशा नरे नारी तत्करोत्यसमञ्जसम् । यत्क्रुद्धाः सिंहशार्दूलव्याला अपि न कुर्वते ॥ २५ ॥ दूरतस्ताः परित्याज्याः प्रादुर्भावितदुर्मदाः ।। विश्खोपतापकारिण्यः करिण्य इव योषितः ॥ २६ ॥ स कोऽपि स्मयतां मन्त्रः स देवः कोऽप्युपास्यताम् । न येन स्त्रीपिशाचौयं ग्रसते पौलजीवितम् ॥ २७ ॥ शास्त्रेषु श्रूयते यच्च यच्च लोकेषु गीयते । संवादयन्ति दुःशीलं तवार्यः कामविह्वलाः ॥ २८ ॥ संपिण्डेयवाहिदंष्ट्राग्नियमजिह्वाविषाद्दुरान् । जगज्जिघांसुना नार्यः कृताः क्रूरेण वेधसा ॥ २८ ॥ यदि स्थिरा भवेदिद्युत्तिष्ठन्ति यदि वायवः । दैवात्तथापि नारीणां न स्थना स्थीयते मनः ॥ ३० ॥
(१) ण निरन्तरम्। (३) क छ रामाः ।