________________
तृतीयः प्रकाशः |
पात्राणां, औपग्राहिकाणां च दण्डकादीनां, निवासार्थमाश्रयाणां दानम् । न हि तदस्ति यद्द्रव्य क्षेत्र कालभावापेक्षयाऽनुपकारकं नाम, तत्सर्वस्वस्याऽपि दानम्, साधुधर्मोद्यतस्य स्वपुत्र - पुत्रप्रादेरपि समर्पणं च । किं बहुना ? यथा यथा मुनयो निराबाधवृत्त्या स्वयमनुष्ठानमनुतिष्ठन्ति तथा तथा महता प्रयत्नेन सम्पादनम्, जिनवचनप्रत्यनीकानां च साधुधर्मनिन्दापराणां यथाशक्ति निवारणम् ।
"
यदाह -
'तया सह सामत्थे आणभट्ठम्मि नो खलु उवेहा । अणुकूलगेयरे हि अ अणुसठ्ठी होइ दायव्वा ॥ १ ॥ तथा रत्नत्रयधारिणीषु साध्वीषु साधुष्विव यथोचिताहारादिदानं स्वधनवपनम् । ननु स्त्रीणां निःसत्त्वतया दुःशीलत्वादिना च मोक्षेऽनधिकारः, तत्कथमेताभ्यो दानं साधुदानतुल्यम् ? । उच्यते । निःसत्त्वमसिद्धम्, ब्राह्मीप्रभृतीनां साध्वीनां गृहवासपरित्यागेन यतिधर्ममनुतिष्ठन्तीनां महासत्त्वानां नाऽसत्त्वसम्भवः ।
यदाह -
"
५८१
ब्राह्मी सुन्दर्यार्या राजीमती चन्दना गणधराऽन्या । अपि देवमनुजमहिता विख्याताः शीलसत्त्वाभ्याम् ॥ १ ॥ गार्हस्थ्येऽपि सत्त्वा विख्याताः शीलवतीतमा जगति । सीतादयः कथं तास्तपसि विशीला विसत्त्वाश्च ? ॥ २ ॥
( १ ) तस्मात् सति सामर्थ्येऽऽसाभ्रष्टे नो खलूपेक्षा ।
अनुकूलकेतरे हि चानुशिष्टिर्भवति दातव्या ॥ १ ॥ कडव, विसत्त्वा विशीलाच |
(२)