SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ ५८२ संत्यज्य राज्यलक्ष्मीं पतिपुत्रभ्रातृबन्धुसम्बन्धम् । पारिव्राज्यवहायाः किमसत्त्वं सत्यभामादेः ? ॥ ३ ॥ ननु महापापेन मिथ्यात्वसहायेन स्त्रीत्वमर्ज्यते ; न हि सम्यग्दृष्टिः स्त्रीत्वं कदाचिदु बध्नाति इति कथं स्त्रोशरीरवर्तिन आत्मनो मुक्तिः स्यात् ? । मैवं वोचः, सम्यक्वप्रतिपत्तिकाल एवाऽन्तः कोटीकोटिस्थितिकानां सर्वकर्मणां भावेन मिथ्यात्वमोहनीयादीनां क्षयादिसम्भवान्मिथ्यात्वसहितपापकर्मसम्भवत्वमकारणम्, मोक्षकारणवैकल्यं तु तासु वक्तुमुचितम् । तच्च नास्ति । यतः योगशास्त्रे जानीते जिनवचनं श्रत्ते चरति चाऽऽर्यिका शबलम् । नाऽस्यास्त्यसम्भवोऽस्यां नादृष्टविरोधगतिरस्ति ॥ १॥ इति ॥ तत्मिमेतन्मुक्तिसाधनधनासु साध्वीषु साधुवदु धनवपनमुचितमिति । एतच्चाधिकं यत् साध्वीनां दुःशीलेभ्यो नास्तिकेभ्यो गोपनम्, खग्टहप्रत्यासत्तौ च समन्ततो गुप्ताया गुप्तद्दांराया वसतेर्दानम्, स्वस्त्रीभिश्च तासां परिचयाविधापनम्, स्वपुत्रिकाणां च तत्सन्निधौ धारणम्, व्रतोद्यतानां स्वपुत्रप्रादीनां प्रत्यर्पणं तथा विस्मृतकरणीयानां तत्स्मारणम्, अन्यायप्रवृत्तिसम्भवे तन्निवारणम्, सक्कदन्यायप्रवृत्तौ शिक्षणम्, पुनः पुनः प्रवृत्तौ निष्ठुरभाषणादिना ताडनम्, उचितेन वस्तुनो'पचारणं चेति । श्रावकेषु स्वधनवपनं यथा - – साधर्मिकाः खलु श्रावकस्य श्रावकाः, ܙܠ (१) च-पकरणं ।
SR No.002394
Book TitleYogshastra Part 03
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1910
Total Pages204
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy