________________
योगशास्त्रे
वाक्यानां प्रामाण्यं मन्दधीभिर्निश्चेतव्यम् । जिनवचनं च दुःषमा कालवशादुच्छिवप्रायमिति मत्वा भगवद्भिर्नागार्जुनस्कन्दिलाचार्य्यप्रभृतिभिः पुस्तकेषु न्यस्तम् । ततो जिनवचनबहुमानिना तत् पुस्तकेषु लेखनीयं वस्त्रादिभिरभ्यर्चनीयम् ।
५८०
यदाह
न ते नरा दुर्गतिमाप्नुवन्ति न मूकतां नैव जडस्वभावम् |
न चान्धतां बुद्धिविहीनतां च ये लेखयन्तीह जिनस्य वाक्यम् ॥१॥ लेखयन्ति नरा धन्या ये जिनागमपुस्तकम् ।
ते सर्वं वाङ्मयं ज्ञात्वा सिद्धिं यान्ति न संशयः ॥ २ ॥ जिनागमपाठकानां वस्त्रादिभिरभ्यर्चनं भक्तिपूर्व संमाननं च ।
यदाह
पठति पाठयते पठतामसौ वसनभोजन पुस्तक वस्तुभिः । प्रतिदिनं कुरुते य उपग्रहं स इह सर्वविदेव भवेन्नरः ॥ १ ॥ लिखितानां च पुस्तकानां संविग्नगीतार्थेभ्यो बहुमानपूर्वकं व्याख्यानार्थं दानम्, व्याख्यायमानानां च प्रतिदिनं पूजापूर्वकं श्रवणं चेति । साधूनां च जिनवचनानुसारेण सम्यक् चारित्रमनुपालयतां दुर्लभं मनुष्यजन्म सफलीकुर्वतां स्वयं तीर्णानां परं तारयितुमुद्यतानामातीर्थङ्करगणधरेभ्य आ चैतहिनदोचितेभ्यः सामायिकसंयतेभ्यो यथोचितप्रतिपत्त्या स्वधनवपनम्, यथा-उपकारिणां प्रासुकेषणीयानां कल्पनीयानां चाशनादोनां, रोगापहारिणां च भेषजादीनां, शीतादिवारणार्थानां च वस्त्रादीनां प्रतिलेखनाहेतो रजोहरणादीनां, भोजनाद्यर्थं
-
,