________________
तृतीयः प्रकाशः।
५८८ जिनागमबहुमानिना च देवगुरुधर्मादयोऽपि बहुमता भवन्ति । किं च केवलज्ञानादपि जिनागम एव प्रामाण्येनाऽतिरिच्यते । यदाहुः- .. .
... .. . 'मोहे सुप्रीवउत्ती सुयनाणी जइ हु गिलइ असुद्धं ।
तं केवलो वि भुञ्जइ अपमाणं सुअंभवे इहरा ॥ १ ॥ एकमपि जिनागमवचनं भविनां भवनाशहेतुः । . .
यदाहुः
एकमपि च जिनवचनाद्यस्मानिर्वाहकं पदं भवति ।
श्रूयन्ते चानन्ताः सामायिकमात्रपदसिद्धाः ॥ १ ॥ इति ॥ यद्यपि च मिथ्यादृष्टिभ्य आतुरेभ्य इव पथ्यानं न रोचते जिनवचनम्, तथापि नान्यत् स्वर्गापवर्गमार्गप्रकाशनसमर्थम् ;. इति सम्यग्दृष्टिभिस्तदादरेण श्रद्धातव्यम्, यत: कल्याणभाजिन एव जिनवचनं भावतो भावयन्ति । इतरेषां तु कर्णशूलकारित्वेनामृतमपि विषायते । यदि चेदं जिनवचनं नाभविथत्, तदा धर्माऽधर्मव्यवस्थाशून्यं भवान्धकूप भुवनमपतिष्यत् । यथा च हरीतकी भक्षयेद् विरेककाम: इति वचनाद्वरीतकोभक्षणप्रभवविरेकलक्षणेन प्रत्ययेन सकलस्याऽप्यायुर्वेदस्य प्रामाण्यमवसीयते, तथा अष्टाङ्ग निमित्तकैवलिकाचन्द्रार्कग्रहचारधातुवादरसरसायनादिभिरप्यागमोपदिष्टैर्दष्टार्यवाक्यानां प्रामाण्यनिश्चयेनाऽदृष्टार्थानामपि
(१) अोघे श्रुतोप युक्तः श्रुतज्ञानी यदि खल ग्टह्वात्य शुद्धम् ।
तद केवल्यपि भुङक्नेऽप्रमाणं श्रुतं भवेदितरथा ॥१॥