________________
तृतीयः प्रकाशः |
५८७
किं पुनरुपचितदृढघनशिला समुहातघटित जिनभवनम् । ये कारयन्ति शुभमतिविमानिनस्ते महाधन्याः ॥ २ ॥ राजादेस्तु विधापयितुः प्रचुरतरभाण्डागारग्रामनगरम ण्डलगोकुलादिप्रदानं जिनभवनक्षेत्रे वपनम्, तथा जीर्णशीर्णानां चैत्यानां समारचनम्, नष्टभ्रष्टानां समुद्धरणं चेति । ननु निरवद्यजिनधर्मसमाचरणचतुराणां जिनभवनबिम्बपूजादिकरणमनुचितमिव प्रतिभासते षड्जीवनिकाय विराधनाहेतुत्वात्तस्य, भूमोखननदल-पाटकानयनगर्तापूरणेष्टकाचयनजलप्लावनवनस्पतित्रतकायविराधनामन्तरेण न हि तद्भवति । उच्यते । य आरम्भपरिग्रहप्रसक्त: कुटुम्ब परिपालननिमित्तं धनोपार्जनं करोति, तस्य धनोपार्जनं विफलं मा भूदिति जिनभवनादौ धनव्ययः श्रेयानेव । न च धर्मार्थं धनोपार्जनं युक्तम् ।
यतः -
धर्मार्थं यस्य वित्तेहा तस्यानीहा गरीयसी । प्रक्षालनाडि पङ्कस्य दूरादस्पर्शनं वरम् ॥ १ ॥ इत्युक्तमेव । न च वापीकूपतडागादिखननवदशुभोदकं जिनभवनादिकरणम्, अपि तु सङ्घसमागम धर्मदेशनाकरणव्रतप्रतिपत्त्यादिकरणेन शुभोदर्कमेव । षड्जीवनिकायविराधना च यतनाकारिणामगारिणां कृपापरवशत्वेन सूक्ष्मानपि जन्तून् रक्षयतामविराधनैव ।
1
यदाहु: