________________
५८६
योगशास्त्रे दलस्य ग्रहणेन सूत्रकारादिभृतकानतिसन्धानेन भृत्यानामधिकमूल्यवितरणेन षड्जीवनिकायरक्षायतनापूर्वकं जिनभवनस्य विधापनम्, सति विभवे भरतादिवद् रत्नशिलाभिर्बद्धचामीकरकुटिमस्य मणिमयस्तम्भसोपानस्य रत्नमयतोरणशतालङ्कारकृतस्य विशालशालानलानकस्य शालभञ्जिकाभङ्गिभूषितस्तम्भादिप्रदेशस्य दह्यमानकर्पूरकस्तूरिकागुरुप्रभृतिधूपसमुच्छलडूमपटलजातजलदशशानृत्यल्कलकण्ठकुलकोलाहलस्य चतुर्विधाऽऽतोद्यनान्दीनिनादनादितरोदसीकस्य देवाङ्गप्रभृतिविचित्रवस्त्रोल्लोचखचितमुक्तावचूलालङ्गतस्य उत्पतविपतहायबृत्यहलासिंहादिनादितवत्सुरसमूहमहिमानुमोदनप्रमोदमानजनस्य विचित्रचित्रचित्रीयितसकललोकस्य चामरध्वजच्छत्राद्यलङ्कारविभूषितस्य मूर्धारोपितविजयवैजयन्तीनिबदकिङ्किणोरणत्कारमुखरितदिगन्तस्य कौतुकाक्षिप्तसुरासुरकिनरौनिवहाऽहमहमिकाप्रारब्धसङ्गीतस्य गन्धर्वगीतध्वनितिरस्कृततुम्बुरुमहिम्रो निरन्तरतालारसरासकहल्लीसकप्रमुखप्रबन्धनानाभिनयनव्यग्रकुलाङ्गनाचमत्कारितभव्यलोकस्या-- ऽभिनोयमाननाटककोटिरसाक्षिप्तरसिकजनस्य जिनभवनस्योतुङ्गगिरिशृङ्गेषु जिनानां जन्मदीक्षाज्ञाननिर्वाणस्थानेषु सम्पतिराजवच्च प्रतिपुरं प्रतिग्रामं पदे पदे विधापनम् ; असति तु विभवे ढणकुव्यादिरूपस्याऽपि । यदाह--
यस्तृणमयीमपि कुटौं कुर्याद्दद्यात्तथैकपुष्यमपि । भत्या परमगुरुभ्यः पुण्योन्मानं कुतस्तस्य ? ॥ १ ॥