________________
अत्रान्तरश्लोकाः
द्वितीयः प्रकाशः ।
पश्यन्ति कृष्णकुटिलां कबरीमेव योषिताम् । तदभिष्वङ्गजन्मानं न दुष्कर्मपरम्पराम् ॥ १ ॥ सीमन्तिनीनां सीमन्त: पूर्ण: सिन्दूररेणुना । पन्थाः सोमन्तकाख्यस्य नरकस्येति लक्ष्यताम् ॥ २ ॥ भ्भ्रूवल्लरौं वर्णिनीनां वर्णयन्ति न जानते । . मोक्षाध्वनि प्रस्थितानां पुरोगामुरगीमिमाम् ॥ ३ ॥ भङ्गरान्त्रयनापाङ्गानङ्गनानां निरीक्षते । हतबुद्धिर्न तु निजं भङ्गुरं हन्त जीवितम् ॥ ४ ॥ नासावंशं प्रशंसन्ति स्त्रीणां सरलमुव्रतम् । निजवंशं न पश्यन्ति भ्रश्यन्तमनुरागिणः ॥ ५ ॥ स्त्रीणां कपोले संक्रान्तमात्मानं वोच्य हृष्यति । संसारसरसीपङ्के मज्जन्तं वेत्ति नो जडः ॥ ६ ॥ पिबन्ति रतिसर्वस्वबुद्धा बिम्बाधरं स्त्रियाः । न बुध्यन्ते यत्कृतान्तः पिबत्यायुर्दिवानिशम् ॥ ७ ॥ योषितां दशनान् कुन्दसोदरान् बहु मन्वते । स्वदन्तभङ्गं नेक्षन्ते तरसा जरसा कृतम् ॥ ८ ॥ स्मरदोलाधिया कर्णपाशान् पश्यति योषिताम् । कण्ठोपकण्ठलुठितान् कालपाशांस्तु नात्मनः ॥ ८ ॥ योषितां प्रोषितमतिर्मुखं पश्यत्यनुक्षणम् । क्षणोऽपि हन्त नास्त्यस्य कृतान्तमुखवोक्षणे ॥ १० ॥
५२
४०८