________________
योगशास्त्रे
पुरुषाणां तदा अन्यस्य कान्ता भार्या अन्यकान्ता तदासक्तचेतसाम् । यदा तु स्त्रीणां तदा अन्यः पत्युरपरः स चासौ कान्तश्च कामयिता तत्रासक्तचेतसाम् ॥ १०३ ॥
४०८
अब्रह्मनिन्दां कृत्वा ब्रह्मचर्यस्यैहिकं गुणमाहप्राणभूतं चरित्रस्य परब्रह्मेककारणम् ।
समाचरन् ब्रह्मचर्यं पूजितैरपि पूज्यते ॥ १०४ ॥
प्राणभूतं जीवितभूतं, चरित्रस्य देशचारित्रस्य सर्वचारित्रस्य च, परब्रह्मणो मोक्षस्य, एकमद्दितीयं, कारणं समाचरन् पालयन्, ब्रह्मचर्यं जितेन्द्रियस्योपस्थ निरोधलक्षणं पूजितैरपि सुरासुरमनुजेन्द्रे : है: न केवलमन्यैः पूज्यते, मनोवाक्कायोपचारपूजाभिः ॥ १०४ ॥
ब्रह्मचर्यस्य पारलौकिकं गुणमाह
चिरायुषः सुसंस्थाना दृढसंहनना नराः । तेजखिनो महावीर्या भवेयुर्ब्रह्मचर्यतः ॥ १०५ ॥
-
-
चिरायुषो दीर्घायुषोऽनुत्तरसुरादिषूत्पादात्, शोभनं संस्थानं समचतुरस्रलक्षणं येषां ते सुसंस्थानाः अनुत्तरसुरादिषूत्पादादेव, दृढं बलवत् संहननमस्थिसञ्चयरूपं वञ्चऋषभनाराचाख्यं येषां ते दृढसंहननाः, एतच्च मनुजभवेषूत्पद्यमानानां देवेषु संहननाभावात्. तेजः शरीरकान्तिः प्रभावो वा विद्यते येषां ते तेजखिनः, महावीर्या बलवत्तमाः तीर्थकर चक्रवर्त्त्यादित्वेनोत्पादात्, भवेयुजयेरन्, ब्रह्मचर्यतो ब्रह्मचर्यानुभावात् ॥