________________
हितीयः प्रकाशः। स्थानं सुदर्शनमुनिः परमं प्रपेदे जैनेन्द्रशासनजुषां न हि तदुरापम् ॥ १८० ॥
॥ इति सुदर्शनऋषिकथानकम् ॥ १०१ ॥ धर्म्य कर्मणि न पुरुषा एवाधिक्रियन्ते किन्तु स्त्रीणामप्यधिकारश्चतुर्वणे सङ्घ तासामप्यङ्गभूतत्वात् ततः पुरुषस्य परदारप्रतिषेधवत् स्त्रीणां परपुरुषगमनं प्रतिषेधयतिऐश्वर्यराजराजोऽपि रूपमौनध्वजोऽपि च । सौतया रावण इव त्याज्यो नार्या नरः परः ॥ १०२॥
ऐश्वर्येण विभवेन, राजराजो धनदः स इव राजराजः, प्रास्तामितरः। रूपेण सौन्दर्येण, मौनध्वजोऽपि स्मरोऽपि, प्रास्तामन्यः। त्याज्य: परिहरणीयः, नाऱ्या स्त्रिया, पर: स्वपतेरन्यो, नरः पुरुषः, क व कया, सोतया रावण इव । सीताचरितमुक्तमेव ॥ १०२ ॥
स्त्रीपुंसयोईयोरपि परकान्तासक्तत्वस्य फलमाहनपुंसकत्वं तिर्यकत्वं दौर्भाग्यं च भवे भवे । भवेन्नराणां स्त्रीणां चान्यकान्तासक्तचेतसाम् ॥१०३॥
नपुंसकत्वं षण्डत्वं, तिर्यक्त्वं तिर्यग्भावः, दौर्भाग्यमनादेयता, भवे भवे जन्मनि जन्मनि, भवेत् जायेत, नराणां स्त्रीणां च । अन्यकान्तासक्त चेतसामिति। निष्टं योर्विशेषणम् । यदा