________________
योगशास्त्रे भिक्षार्थं पर्यटस्तत्र दृष्टः पण्डितया च सः । कथितो देवदत्तायाः सा तया तमजूहवत् ॥ ८१ ॥ भिक्षाव्याजात्तयाऽऽहतस्तत्रापि स मुनिर्ययौ। विमर्शमविधायैव सापायनिरपाययोः ॥ २ ॥ देवदत्ता ततो हारं पिधाय तमनेकधा । दिनं कदर्थयामास चुक्षोभ स मुनि तु ॥ ८३ ॥ . अथ 'मुक्तोऽनया सायमुद्यानं गतवानसौ। तत्रापि दृष्टोऽभयया व्यन्तरीभूतया तया ॥ ८४ ॥ कदर्थयितुमारेभे प्राकर्मस्मरणादसौ। ऋणं वैरं च जन्तूनां नश्येज्जन्मान्तरेऽपि न ॥ ८५ ॥ क्लिश्यमानो बहु तया महासत्त्वः सुदर्शनः । . आरोहत् क्षपकवेणिमपूर्वकरणक्रमात् ॥ ८६ ॥ तत: स भगवान् प्राप केवलज्ञानमुज्ज्वलम् । तस्य केवलमहिमा सद्यश्चक्रे सुरासुरैः ॥ ८७ ॥ उद्दिधीषुभवाज्जन्तून् स चक्रे धर्मदेशनाम् । लोकोदयायाभ्युदयस्तादृशानां हि जायते ॥ ८८ ॥ तस्य देशनया तत्राबुद्दान्तान्ये न केवलम् । देवदत्ता पण्डिता च व्यन्तरी च व्यबुद्धात ॥ ८८ ॥ स्त्रीसबिधावपि तदेवमदूषितात्मा जन्तून् प्रबोध्य शुभदेशनया क्रमेण ।
(१) ख ड मुक्तस्तया साय-| च मुक्तस्तया सोऽय-।