________________
हितीयः प्रकाश:।
४०५
किं च किञ्चिदिदं पापं भवताऽप्यस्मि कारितः । असवद्यन्मया साधो ! तदा पृष्टोऽपि नावदः ॥ ७१ ॥ एवमालपता राजा करिण्यामधिरोप्य सः । नीत्वा स्वहर्ये नपितश्चन्दनैश्च विलेपितः ॥ ७२ ॥ वस्खालङ्कारजातञ्च परिधाप्य सुदर्शनः ।। राज्ञा पृष्टो रानिवृत्तं यथातथमचीकथत् ॥ ७३ ॥ अथ राजौं प्रति क्रुद्धो भूपतिर्निग्रहोद्यतः । सुदर्शनेन व्याषेधि शिरः प्रक्षिप्य पादयोः ॥ ७४ ॥ 'तत: श्रेष्ठी नृपेणेभमारोप्य पुरमध्यतः । महाविभूत्या तद्देश्म नायितो न्यायतायिना ॥ ७५ ॥ अभयाऽप्येतदाकोदध्यात्मानं व्यपद्यत । परद्रोहकराः पापाः स्वयमेव पतन्ति हि ॥ ७६ ॥ पण्डिताऽपि प्रणश्यागात्याटलीपुत्रपत्तनम् । अवसहेवदत्ताया गणिकायाश्च सविधौ ॥ ७७ ॥ तत्रापि पण्डिता नित्यं तथाऽऽशंसत्सुदर्शनम् । दर्शनेऽस्य यथा देवदत्ताऽभूपृशमुत्सुका ॥ ७८ ॥ सुदर्शनोऽपि संसारविरक्तो व्रतमग्रहीत् । उपमृत्य गुरोः पाखें रत्नमम्भोनिधेरिव ॥ ७ ॥ तपःकशाङ्ग एकाङ्गविहारप्रतिमास्थितः । स क्रमादिहरन् प्राप पाटलीपुत्रपत्तनम् ॥ ८० ॥
(१) खच अथ ।