________________
तृतीयः प्रकाशः। अबीए' इति वचनप्रामाण्यादित्याहुः । नायमेकान्तो वचनान्तरस्याऽपि श्रवणात्। व्यवहारभाष्थेऽप्युक्ताम् -
'राजसुयाई पञ्च वि पोसहसालाइ संमिलिया । इत्यलं प्रसङ्गेन ॥ ११६ ॥ एते पञ्चातिचाराः सामायिकव्रते उक्ताः, इदानीं
देशावकाशिकव्रतातिचारानाहप्रेष्यप्रयोगानयने पुद्गलक्षेपणं तथा।
शब्दरूपाऽनुपातौ च व्रते देशावकाशिके ॥ ११७॥ दिग्व्रतविशेष एव देशावकाशिकव्रतम्, इयांस्तु विशेषःदिगव्रतं यावज्जीवं संवत्सरचतुर्मासोपरिमाणं वा, देशावकाशिक तु दिवसप्रहरमुहूर्तादिपरिमाणम् । तस्य च पञ्चातिचाराः । तद्यथा-प्रेष्यस्याऽऽदेश्यस्य प्रयोगो विवक्षितक्षेत्राइहिष्ययोजनाय व्यापारणम्, स्वयं गमने हि व्रतभङ्गः स्यादिति प्रेष्यप्रयोगः । देशावकाशिकव्रतं हि मा भूद् गमनागमनादिव्यापारजनितप्राण्यपमर्द इत्यभिप्रायेण ग्राह्यते, स तु स्वयं कृतोऽन्येन कारित इति न कथित् फले विशेषः ; प्रत्युत खयं गमने ईर्यापथविशु डेर्गुणः, परस्य पुनरनिपुणत्वादीयासमित्यभावे दोष इति प्रथमोऽतिचार: १। आनयनं विवक्षितक्षेत्राद् बहिः स्थितस्य स वेतनादिद्रव्य त्य विवक्षितक्षेत्र प्रापणं सामर्थ्यात् प्रेष्येण ; स्वयं गमने हि व्रतभङ्गः स्यात्, परेण तु आनयने न व्रतभङ्गः स्यादिति
(१) राजसुतादयः पञ्चाऽपि पोषधशालायां मंमिलिताः ।