________________
५७८
योगशास्त्रे
विधेयं स्यात् मनोदुष्पणिधानं चाशक्यपरिहारं मनसोऽनवस्थितत्वादतः सामायिकप्रतिपत्तेः सकाशात्तदप्रतिपत्तिरेव श्रेयसी। यदाहुः-अविधिकताहरमकतमिति। नैवम् । यतः सामायिक विविधं त्रिविधेन प्रतिपन्नम्, तत्र च मनसा वाचा कायेन सावा न करोमि न कारयामीति षट् प्रत्याख्यानानि इत्ये कतरप्रत्याख्यानभङ्गेऽपि शेषसद्भावान्मिथ्यादुष्कृतेन मनोदुष्पणिधानमात्रशुद्धेश्च न सामायिकस्यात्यन्ताभावः, सर्वविरतिसामायिकेऽपि च तथाऽभ्युपगतम् ; यतो गुप्तिभङ्गे मिथ्यादुष्कृतं प्रायश्चित्तमुक्तम् । किञ्च सातिचारादप्यनुष्ठानादभ्यासत: कालेन निरतिचारमनुष्ठानं भवति । यदाहुर्बाह्या अपि- .
अभ्यासो हि कर्मणां कौशलमावहति, न हि सक्तनिपातमात्रेणोदबिन्दुरपि ग्रावणि निम्नतामादधाति ।
न चाविधिकता वरमकृतमिति युक्तम्, असूयावचनवादस्य । यदाहुः--
'अविहिकया वरम कयं असूयवयणं भणन्ति समय ।
पायच्छित्तं जमा अकए गुरुअं कए लहुअं ॥ १ ॥ कचित्तु पोषधशालायां सामायिकमेकेनैव कायं न बहुभिः, 'एगे
(१) अविधिकृताद् वरमकतमस्सूयावचनं भणन्ति समयज्ञाः।
प्रायश्चित्तं यस्मादकते गुरुकं कृते लवुकम ॥ १ ॥